Back to home
Shanti Ka Sargam
Indian Classical

Shanti Ka Sargam

Alak ChoudharyAlak Choudhary
0 likes1 plays1:41
Style: indian classical, sitar, tabla, tanpura, raaga, meditative, traditional, Orchestral, female vocal, flute, piano
Learn to sing thisKaraoke with live pitch — get a score on every lineSing →

PRO & Creator Features

Unlock advanced AI features with Pro (Audio2Audio, Photo Covers, LoRA) or Creator (Voice Clone, Variations, Edit Sections, Stem Separation).

Audio2Audio Remix

Pro & Creator

Voice Clone

Creator

Create Variations

Creator only

Edit Sections

Creator only

Stem Separation

Creator only

Lyrics

▶ Play this song to follow along.

श्रीकनकधारास्तोत्रम्

वन्दे वन्दारुमन्दारमिन्दिरानन्दकन्दलम् ।

अमन्दानन्दसन्दोहबन्धुरं सिन्धुराननम् ॥

अङ्गं हरेः पुलकभूषणमाश्रयन्ती

भ्रिङ्गाङ्गनेव मुकुलाभरणं तमालम् ।

अङ्गीक्रिताखिलविभूतिरपाङ्गलीला

माङ्गल्यदास्तु मम मङ्गलदेवतायाः ॥ एक॥

मुग्धा मुहुर्विदधती वदने मुरारेः

प्रेमत्रपाप्रणिहितानि गतागतानि ।

माला द्रिशोर्मधुकरीव महोत्पले या

सा मे श्रियं दिशतु सागरसम्भवायाः ॥ दो॥

विश्वामरेन्द्रपदविभ्रमदानदक्षं

आनन्दहेतुरधिकं मुरविद्विषोपि ।

ईषन्निषीदतु मयि क्षणमीक्षणार्धम्

इन्दीवरोदरसहोदरमिन्दिरायाः ॥ तीन॥

आमीलिताक्षमधिगम्य मुदा मुकुन्दं

आनन्दकन्दमनिमेषमनङ्गतन्त्रम् ।

आकेकरस्थितकनीनिकपक्ष्मनेत्रं

भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः ॥ चार॥

बाह्वन्तरे मधुजितः श्रितकौस्तुभे या

हारावलीव हरिनीलमयी विभाति ।

कामप्रदा भगवतोपि कटाक्षमाला

कल्याणमावहतु मे कमलालयायाः ॥ पांच॥

कालाम्बुदालिललितोरसि कैटभारेः

धाराधरे स्फुरति या तडिदङ्गनेव ।

मातुस्समस्तजगतां महनीयमूर्तिः

भद्राणि मे दिशतु भार्गवनन्दनायाः ॥ छह॥

प्राप्तं पदं प्रथमतः खलु यत्प्रभावात्

माङ्गल्यभाजि मधुमाथिनि मन्मथेन ।

मय्यापतेत्तदिह मन्थरमीक्षणार्धं

मन्दालसं च मकरालयकन्यकायाः ॥ सात॥

दद्याद्दयानुपवनो द्रविणाम्बुधारां

अस्मिन्नकिञ्चनविहङ्गशिशौ विषण्णे ।

दुष्कर्मघर्ममपनीय चिराय दूरं

नारायणप्रणयिनीनयनाम्बुवाहः ॥ आठ॥

इष्टाविशिष्टमतयोपि यया दयार्द्र-

द्रिष्ट्या त्रिविष्टपपदं सुलभं लभन्ते ।

द्रिष्टिः प्रह्रिष्टकमलोदरदीप्तिरिष्टां

पुष्टिं क्रिषीष्ट मम पुष्करविष्टरायाः ॥ नौ॥

गीर्देवतेति गरुडध्वजसुन्दरीति

(गरुडध्वजभामिनीति)

शाकम्भरीति शशिशेखरवल्लभेति ।

स्रिष्टिस्थितिप्रलयकेलिषु संस्थितायै

तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥ दस॥

श्रुत्यै नमोस्तु शुभकर्मफलप्रसूत्यै

रत्यै नमोस्तु रमणीयगुणार्णवायै ।

शक्त्यै नमोस्तु शतपत्रनिकेतनायै

पुष्ट्यै नमोस्तु पुरुषोत्तमवल्लभायै ॥ ग्यारह॥

नमोस्तु नालीकनिभाननायै

नमोस्तु दुग्धोदधिजन्मभूम्यै ।

नमोस्तु सोमाम्रितसोदरायै

नमोस्तु नारायणवल्लभायै ॥ बारह॥

सम्पत्कराणि सकलेन्द्रियनन्दनानि

साम्राज्यदानविभवानि सरोरुहाक्षि ।

(सरोरुहाणि)

त्वद्वन्दनानि दुरितोद्धरणोद्यतानि

(दुरिताहरणोद्यतानि, दुरितोत्तरणोद्यतानि)

मामेव मातरनिशं कलयन्तु मान्ये ॥ तेरह॥

यत्कटाक्षसमुपासनाविधिः

सेवकस्य सकलार्थसम्पदः ।

सन्तनोति वचनाङ्गमानसैः

त्वां मुरारिह्रिदयेश्वरीं भजे ॥ चौदह॥

सरसिजनिलये सरोजहस्ते

धवलतमांशुकगन्धमाल्यशोभे ।

भगवति हरिवल्लभे

Comments(0)

Sign in to join the conversation.

No comments yet. Be the first to comment!