Back to home
Velvet Echoes
Acoustic

Velvet Echoes

Rajesh KumarRajesh Kumar
0 likes0 plays2:44
Style: female vocal
Learn to sing thisKaraoke with live pitch — get a score on every lineSing →

PRO & Creator Features

Unlock advanced AI features with Pro (Audio2Audio, Photo Covers, LoRA) or Creator (Voice Clone, Variations, Edit Sections, Stem Separation).

Audio2Audio Remix

Pro & Creator

Voice Clone

Creator

Create Variations

Creator only

Edit Sections

Creator only

Stem Separation

Creator only

Lyrics

▶ Play this song to follow along.

महालक्ष्म्याः प्रवक्ष्यामि कवचं सर्वकामदम् ।

सर्वपापप्रशमनं दुष्टव्याधिविनाशनम् ॥

ग्रहपीडाप्रशमनं ग्रहारिष्टप्रभञ्जनम् ।

दुष्टम्रित्युप्रशमनं दुष्टदारिद्र्यनाशनम् ॥

पुत्रपौत्रप्रजननं विवाहप्रदमिष्टदम् ।

चोरारिहं च जपतां अखिलेप्सितदायकम् ॥

सावधानमना भूत्वा श्रुणु त्वं शुक सत्तम ।

अनेकजन्मसंसिद्धिलभ्यं मुक्तिफलप्रदम् ॥

धनधान्यमहाराज्यसर्वसौभाग्यकल्पकम् ।

सक्रित्स्मरणमात्रेण महालक्ष्मीः प्रसीदति ॥

क्षीराब्धिमध्ये पद्मानां कानने मणिमण्टपे ।

तन्मध्ये सुस्थितां देवीं मनीषाजनसेविताम् ॥

सुस्नातां पुष्पसुरभिकुटिलालकबन्धनाम् ।

पूर्णेन्दुबिम्बवदनां अर्धचन्द्रललाटिकाम् ॥

इन्दीवरेक्षणां कामकोदण्डभ्रुवमीश्वरीम् ।

तिलप्रसवसंस्पर्धिनासिकालङ्क्रितां श्रियम् ॥

कुन्दकुड्मलदन्तालिं बन्धूकाधरपल्लवाम् ।

दर्पणाकारविमलकपोलद्वितयोज्ज्वलाम् ॥

रत्नताटङ्ककलितकर्णद्वितयसुन्दराम् ।

माङ्गल्याभरणोपेतां कम्बुकण्ठीं जगत्प्रियाम् ॥

तारहारिमनोहारिकुचकुम्भविभूषिताम् ।

रत्नाङ्गदादिललितकरपद्मचतुष्टयाम् ॥

कमले च सुपत्राढ्ये ह्यभयं दधतीं वरम् ।

रोमराजिकलाचारुभुग्ननाभितलोदरीम् ॥

पत्तवस्त्रसमुद्भासिसुनितंबादिलक्षणाम् ।

काञ्चनस्तम्भविभ्राजद्वरजानूरुशोभिताम् ॥

स्मरकाह्लिकागर्वहारिजंभां हरिप्रियाम् ।

कमठीप्रिष्ठसद्रिशपादाब्जां चन्द्रसन्निभाम् ॥

पङ्कजोदरलावण्यसुन्दराङ्घ्रितलां श्रियम् ।

सर्वाभरणसंयुक्तां सर्वलक्षणलक्षिताम् ॥

पितामहमहाप्रीतां नित्यत्रिप्तां हरिप्रियाम् ।

नित्यं कारुण्यललितां कस्तूरीलेपिताङ्गिकाम् ॥

सर्वमन्त्रमयां लक्ष्मीं श्रुतिशास्त्रस्वरूपिणीम् ।

परब्रह्ममयां देवीं पद्मनाभकुटुंबिनीम् ।

एवं ध्यात्वा महालक्ष्मीं पठेत् तत्कवचं परम् ॥

ध्यानम् ।

एकं न्यंच्यनतिक्षमं ममपरं चाकुंच्यपदांबुजं

मध्ये विष्टरपुण्डरीकमभयं विन्यस्तहस्ताम्बुजम् ।

त्वां पश्येम निषेदुषीमनुकलंकारुण्यकूलंकष-

स्फारापाङ्गतरङ्गमम्ब मधुरं मुग्धं मुखं बिभ्रतीम् ॥

महालक्ष्मीः शिरः पातु ललाटं मम पङ्कजा ।

कर्णे रक्षेद्रमा पातु नयने नलिनालया ॥

नासिकामवतादंबा वाचं वाग्रूपिणी मम ।

दन्तानवतु जिह्वां श्रीरधरोष्ठं हरिप्रिया ॥

चुबुकं पातु वरदा गलं गन्धर्वसेविता ।

वक्षः कुक्षिं करौ पायूं प्रिष्ठमव्याद्रमा स्वयम् ॥

कटिमूरुद्वयं जानु जघं पातु रमा मम ।

सर्वाङ्गमिन्द्रियं प्राणान् पायादायासहारिणी ॥

सप्तधातून् स्वयं चापि रक्तं शुक्रं मनो मम ।

ग्यानं बुद्धिं महोत्साहं सर्वं मे पातु पङ्कजा ॥

मया क्रितं च यत्किञ्चित्तत्सर्वं पातु सेन्दिरा ।

ममायुरवतात् लक्ष्मीः भार्यां पुत्रा�

Comments(0)

Sign in to join the conversation.

No comments yet. Be the first to comment!