
Sthira Bhakti
PRO & Creator Features
Unlock advanced AI features with Pro (Audio2Audio, Photo Covers, LoRA) or Creator (Voice Clone, Variations, Edit Sections, Stem Separation).
Audio2Audio Remix
Pro & Creator
Voice Clone
Creator
Create Variations
Creator only
Edit Sections
Creator only
Stem Separation
Creator only
Lyrics
▶ Play this song to follow along.
॥ श्री गणेशाय नमः ॥
वन्दे वन्दारुमन्दारमिन्दिरानन्दकन्दलम् ।
अमन्दानन्दसन्दोहबन्धुरं सिन्धुराननम् ॥
॥ एक ॥
अङ्गं हरेः पुलकभूषणमाश्रयन्ती
भ्रिङ्गाङ्गनेव मुकुलाभरणं तमालम् ।
अङ्गीक्रिताखिलविभूतिरपाङ्गलीला
माङ्गल्यदास्तु मम मङ्गलदेवतायाः ॥
॥ दो ॥
मुग्धा मुहुर्विदधती वदने मुरारेः
प्रेमत्रपाप्रणिहितानि गतागतानि ।
माला द्रिशोर्मधुकरीव महोत्पले या
सा मे श्रियं दिशतु सागरसम्भवायाः ॥
॥ तीन ॥
आमीलिताक्षमधिगम्य मुदा मुकुन्दम्
आनन्दकन्दमनिमेषमनङ्गतन्त्रम् ।
आकेकरस्थितकनीनिकपक्ष्मनेत्रं
भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः ॥
॥ चार ॥
बाह्वन्तरे मधुजितः श्रितकौस्तुभे या
हारावलीव हरिनीलमयी विभाति ।
कामप्रदा भगवतोपि कटाक्षमाला
कल्याणमावहतु मे कमलालयायाः ॥
॥ पांच ॥
कालाम्बुदालिललितोरसि कैटभारेः
धाराधरे स्फुरति या तडिदङ्गनेव ।
मातुः समस्तजगतां महनीयमूर्तिः
भद्राणि मे दिशतु भार्गवनन्दनायाः ॥
॥ छह ॥
प्राप्तं पदं प्रथमतः खलु यत्प्रभावात्
माङ्गल्यभाजि मधुमाथिनि मन्मथेन ।
मय्यापतेत्तदिह मन्थरमीक्षणार्धं
मन्दालसं च मकरालयकन्यकायाः ॥
॥ सात ॥
विश्वामरेन्द्रपदविभ्रमदानदक्षम्
आनन्दहेतुरधिकं मुरविद्विषोपि ।
ईषन्निषीदतु मयि क्षणमीक्षणार्थम्
इन्दीवरोदरसहोदरमिन्दिरायाः ॥
॥ आठ ॥
इष्टा विशिष्टमतयोपि यया दयार्द्र
द्रिष्ट्या त्रिविष्टपपदं सुलभं लभन्ते ।
द्रिष्टिः प्रह्रिष्टकमलोदरदीप्तिरिष्टां
पुष्टिं क्रिषीष्ट मम पुष्करविष्टरायाः ॥
॥ नौ ॥
दद्याद्दयानुपवनो द्रविणाम्बुधारा-
मस्मिन्नकिञ्चनविहङ्गशिशौ विषण्णे ।
दुष्कर्मघर्ममपनीय चिराय दूरं
नारायणप्रणयिनीनयनाम्बुवाहः ॥
॥ दस ॥
गीर्देवतेति गरुडध्वजसुन्दरीति
शाकम्भरीति शशिशेखरवल्लभेति ।
स्रिष्टिस्थितिप्रलयकेलिषु संस्थितायै
तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥
॥ ग्यारह ॥
श्रुत्यै नमोस्तु शुभकर्मफलप्रसूत्यै
रत्यै नमोस्तु रमणीयगुणार्णवायै ।
शक्त्यै नमोस्तु शतपत्रनिकेतनायै
पुष्ट्यै नमोस्तु पुरुषोत्तमवल्लभायै ॥
॥ बारह ॥
नमोस्तु नालीकनिभाननायै
नमोस्तु दुग्धोदधिजन्मभूम्यै ।
नमोस्तु सोमाम्रितसोदरायै
नमोस्तु नारायणवल्लभायै ॥
॥ तेरह ॥
नमोस्तु हेमाम्बुजपीठिकायै
नमोस्तु भूमण्डलनायिकायै ।
नमोस्तु देवादिदयापरायै
नमोस्तु शार्ङ्गायुधवल्लभायै ॥
॥ चौदह ॥
नमोस्तु देव्यै भ्रिगुनन्दनायै
नमोस्तु विष्णोरुरसि स्थितायै ।
नमोस्तु लक्ष्म्यै कमलालयायै
नमोस्तु दामोदरवल्लभायै ॥
॥ पंद्रह ॥
नमोस्तु कान्त्यै कमलेक्षणायै
नमोस्तु भूत्यै भुवनप्रसूत्यै ।
नमोस्तु देवाद