
Vrindavan Ki Dhun
PRO & Creator Features
Unlock advanced AI features with Pro (Audio2Audio, Voice Clone, Photo Covers, LoRA) or Creator (Variations, Edit Sections, Stem Separation).
Audio2Audio Remix
Pro & Creator
Voice Clone
Pro & Creator
Create Variations
Creator only
Edit Sections
Creator only
Stem Separation
Creator only
Lyrics
▶ Play this song to follow along.
[Title: Madhurashtakam – Adharam Madhuram]
[Intro]
जय श्री क्रिष्ण।
श्री क्रिष्ण गोविन्द हरे मुरारे।
हे नाथ नारायण वासुदेव।
[Verse 1]
अधरं मधुरं वदनं मधुरं
नयनं मधुरं हसितं मधुरम्।
ह्रिदयं मधुरं गमनं मधुरं
मधुराधिपतेरखिलं मधुरम्॥
[Verse 2]
वचनं मधुरं चरितं मधुरं
वसनं मधुरं वलितं मधुरम्।
चलितं मधुरं भ्रमितं मधुरं
मधुराधिपतेरखिलं मधुरम्॥
[Verse 3]
वेणुर्मधुरो रेणुर्मधुरः
पाणिर्मधुरः पादौ मधुरौ।
न्रित्यं मधुरं सख्यं मधुरं
मधुराधिपतेरखिलं मधुरम्॥
[Verse 4]
गीतं मधुरं पीतं मधुरं
भुक्तं मधुरं सुप्तं मधुरम्।
रूपं मधुरं तिलकं मधुरं
मधुराधिपतेरखिलं मधुरम्॥
[Verse 5]
करणं मधुरं तरणं मधुरं
हरणं मधुरं रमणं मधुरम्।
वमितं मधुरं शमितं मधुरं
मधुराधिपतेरखिलं मधुरम्॥
[Verse 6]
गुञ्जा मधुरा माला मधुरा
यमुना मधुरा वीची मधुरा।
सलिलं मधुरं कमलं मधुरं
मधुराधिपतेरखिलं मधुरम्॥
[Verse 7]
गोपी मधुरा लीला मधुरा
युक्तं मधुरं मुक्तं मधुरम्।
द्रिष्टं मधुरं शिष्टं मधुरं
मधुराधिपतेरखिलं मधुरम्॥
[Verse 8]
गोपा मधुरा गावो मधुरा
यष्टिर्मधुरा स्रिष्टिर्मधुरा।
दलितं मधुरं फलितं मधुरं
मधुराधिपतेरखिलं मधुरम्॥
[Outro]
मधुराधिपतेरखिलं मधुरम्।
जय श्री क्रिष्ण।
राधे क्रिष्ण।