
Pitru Vandana Shanti Path
PRO & Creator Features
Unlock advanced AI features with Pro (Audio2Audio, Voice Clone, Photo Covers, LoRA) or Creator (Variations, Edit Sections, Stem Separation).
Audio2Audio Remix
Pro & Creator
Voice Clone
Pro & Creator
Create Variations
Creator only
Edit Sections
Creator only
Stem Separation
Creator only
Lyrics
▶ Play this song to follow along.
अर्चितानाममूर्तानां पित्रिणां दीप्ततेजसाम् ।
नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम् ॥
इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा ।
सप्तर्षीणां तथान्येषां तान् नमस्यामि कामदान् ॥
मन्वादीनां च नेतारः सूर्याचन्द्रमसोस्तथा ।
तान् नमस्याम्यहं सर्वान् पित्रिनप्सूदधावपि ॥
नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा ।
द्यावाप्रिथिव्योश्च तथा नमस्यामि क्रिताञ्जलिः ॥
देवर्षीणां जनित्रिंश्च सर्वलोकनमस्क्रितान् ।
अक्षयस्य सदा दात्रिन् नमस्येहं क्रिताञ्जलिः ॥
प्रजापतेः कश्यपाय सोमाय वरुणाय च ।
योगेश्वरेभ्यश्च सदा नमस्यामि क्रिताञ्जलिः ॥
नमो गणेभ्यः सप्तभ्यस्तथा लोकेषु सप्तसु ।
स्वयम्भुवे नमस्यामि ब्रह्मणे योगचक्षुषे ॥
सोमाधारान् पित्रिगणान् योगमूर्तिधरांस्तथा ।
नमस्यामि तथा सोमं पितरं जगतामहम् ॥
अग्निरूपांस्तथैवान्यान् नमस्यामि पित्रिनहम् ।
अग्नीषोममयं विश्वं यत एतदशेषतः ॥
ये तु तेजसि ये चैते सोमसूर्याग्निमूर्तयः ।
जगत्स्वरूपिणश्चैव तथा ब्रह्मस्वरूपिणः ॥
तेभ्योखिलेभ्यो योगिभ्यः पित्रिभ्यो यतमानसः ।
नमो नमो नमस्तेस्तु प्रसीदन्तु स्वधाभुजः ॥