
Raga of the Drone
PRO & Creator Features
Unlock advanced AI features with Pro (Audio2Audio, Voice Clone, Photo Covers, LoRA) or Creator (Variations, Edit Sections, Stem Separation).
Audio2Audio Remix
Pro & Creator
Voice Clone
Pro & Creator
Create Variations
Creator only
Edit Sections
Creator only
Stem Separation
Creator only
Lyrics
▶ Play this song to follow along.
[Intro: gentle river water sounds, soft bansuri, tanpura drone — spoken softly: ॥ श्रीगोपीजनवल्लभाय नमः ॥]
[Verse 1]
नमामि यमुनामहं सकलसिद्धिहेतुं मुदा
मुरारिपदपङ्कजस्फुरदमन्दरेणूत्कटाम्
तटस्थनवकाननप्रकटमोदपुष्पाम्बुना
सुरासुरसुपूजितस्मरपितुः श्रियं बिभ्रतीम्
[Verse 2]
कलिन्दगिरिमस्तके पतदमन्दपूरोज्ज्वला
विलासगमनोल्लसत्प्रकटगण्डशैलोन्नता
सघोषगतिदन्तुरा समधिरूढदोलोत्तमा
मुकुन्दरतिवर्धिनी जयति पद्मबन्धोः सुता
[Verse 3]
भुवं भुवनपावनीमधिगतामनेकस्वनैः
प्रियाभिरिव सेवितां शुकमयूरहंसादिभिः
तरङ्गभुजकङ्कणप्रकटमुक्तिकावालुका
नितम्बतटसुन्दरीं नमत क्रिष्णतुर्यप्रियाम्
[Verse 4]
अनन्तगुणभूषिते शिवविरञ्चिदेवस्तुते
घनाघननिभे सदा ध्रुवपराशराभीष्टदे
विशुद्धमथुरातटे सकलगोपगोपीव्रिते
क्रिपाजलधिसंश्रिते मम मनस्सुखं भावय
[Verse 5]
यया चरणपद्मजा मुररिपोः प्रियम्भावुका
समागमनतोभवत् सकलसिद्धिदा सेवताम्
तया सद्रिशतामियात् कमलजा सपत्नीव यद्
धरिप्रियकलिन्दया मनसि मे सदा स्थीयताम्
[Chorus]
नमोस्तु यमुने सदा तव चरित्रमत्यद्भुतं
न जातु यमयातना भवति ते पयः पानतः
यमोपि भगिनीसुतान्कथमु हन्ति दुष्टानपि
प्रियो भवति सेवनात्तव हरेर्यथा गोपिकाः
[Verse 7]
ममास्तु तव सन्निधौ तनुनवत्वमेतावता
न दुर्लभतमा रतिर्मुररिपौ मुकुन्दप्रिये
अतोस्तु तव लालना सुरधुनी परं सङ्गमात्
तवैव भुवि कीर्तिता न तु कदापि पुष्टिस्थितैः
[Verse 8]
स्तुतिं तव करोति कः कमलजासपत्निप्रिये
हरेर्यदनुसेवया भवति सौख्यमामोक्षतः
इयं तव कथाधिका सकलगोपिकासङ्गमः
स्मरश्रमजलाणुभिः सकलगात्रजैः सङ्गमः
[Outro]
तवाष्टकमिदं मुदा पठति सूरसूते सदा
समस्तदुरितक्षयो भवति वै मुकुन्दे रतिः
तया सकलसिद्धयो मुररिपुश्च सन्तुष्यति
स्वभावविजयो भवेद्वदति वल्लभः श्रीहरेः
इति श्रीवल्लभाचार्यविरचितं श्रीयमुनाष्टकं सम्पूर्णम्