
Raag Of Stillness
PRO & Creator Features
Unlock advanced AI features with Pro (Audio2Audio, Voice Clone, Photo Covers, LoRA) or Creator (Variations, Edit Sections, Stem Separation).
Audio2Audio Remix
Pro & Creator
Voice Clone
Pro & Creator
Create Variations
Creator only
Edit Sections
Creator only
Stem Separation
Creator only
Lyrics
▶ Play this song to follow along.
मङ्गलं नारसिंहाय योगिध्येयाय चक्रिणे ।
सर्वावयवसौन्दर्यशोभितायास्तु मङ्गलम् ॥
सत्यज्ञानसुखाभासवेषिणे सर्वशेषिणे ।
मेघगम्भीरनिर्घोषभाषिणे नित्यमङ्गलम् ॥
वेदान्तगोचरायैवं भास्वते यज्ञमूर्तये ।
वेधसो यज्ञगोप्त्रे स्याद् योगारूढाय मङ्गलम् ॥
हसन्मुखाय शान्ताय लसन्मकुटमौलये ।
वसते शोभनार्थायावित्रे धीराय मङ्गलम् ॥
कामदायात्मकामाय साट्टहासाय कामिने ।
सटापाटलकान्ताय पञ्चास्यायास्तु मङ्गलम् ॥
मुकुन्दनायिकातुङ्गकुचरम्भणमोदिने ।
श्रीभूमिभ्यां समेताय रम्यसिंहाय मङ्गलम् ॥
नित्ययुक्ताय देवीभिर्निस्तुलानन्दमूर्तये ।
वरदाभयहस्ताय हरये नित्यमङ्गलम् ॥
सुधावल्लीपरिष्वङ्गसुरभीकृतवक्षसे ।
कामासिकानिवासाय श्रीनृसिंहाय मङ्गलम् ॥
एवं कामासिकावासमस्तौषीद्विष्णुचित्तजः ।
यं पठन् प्राप्नुयुः सर्वे श्रीशपादाब्जयो रतिम् ॥